वांछित मन्त्र चुनें

भुव॒स्त्वमि॑न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे॑षु॒ सव॑नेषु य॒ज्ञिय॑: । भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो॑ विश्वचर्षणे ॥

अंग्रेज़ी लिप्यंतरण

bhuvas tvam indra brahmaṇā mahān bhuvo viśveṣu savaneṣu yajñiyaḥ | bhuvo nṝm̐ś cyautno viśvasmin bhare jyeṣṭhaś ca mantro viśvacarṣaṇe ||

पद पाठ

भुवः॑ । त्वम् । इ॒न्द्र॒ । ब्रह्म॑णा । म॒हान् । भुवः॑ । विश्वे॑षु । सव॑नेषु । य॒ज्ञियः॑ । भुवः॑ । नॄन् । च्यौ॒त्नः । विश्व॑स्मिन् । भरे॑ । ज्येष्ठः॑ । च॒ । मन्त्रः॑ । वि॒श्व॒ऽच॒र्ष॒णे॒ ॥ १०.५०.४

ऋग्वेद » मण्डल:10» सूक्त:50» मन्त्र:4 | अष्टक:8» अध्याय:1» वर्ग:9» मन्त्र:4 | मण्डल:10» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वम्) तू (ब्रह्मणा महान् भुवः) वेदज्ञान से महान् है (विश्वेषु सवनेषु यज्ञियः-भुवः) सब सम्पादनीय ब्रह्मचर्य, गृहस्थ, संन्यास आश्रमों में सङ्गमनीय है (नॄन्-च्यौत्नः-भुवः) मुमुक्षों के प्रति रागादियों को हटानेवाला बलवान् है (विश्वचर्षणे) हे सर्वद्रष्टा परमात्मन् ! (विश्वस्मिन् भरे ज्येष्ठः-मन्त्रः-च) सम्पूर्ण भरणीय-धारणीय-निर्वाह करने योग्य वस्तुओं में तू ज्येष्ठ मन्त्रप्रद और ज्ञानप्रद है ॥४॥
भावार्थभाषाः - परमात्मा महान् ज्ञानवान् है। सब आश्रमियों के समागम योग्य है। मुमुक्षुओं के अन्दर से रागादि दोषों को हटानेवाला है ।समस्त भरण करनेवाले पदार्थों में ज्येष्ठ और ज्ञानप्रद है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इन्द्र) हे ऐश्वर्यवन् परमात्मन् ! (त्वम्) (ब्रह्मणा महान् भुवः) ज्ञानेन वेदज्ञानेन महान् भवसि (विश्वेषु सवनेषु यज्ञियः-भुवः) सर्वेषु सम्पादनीयेषु ब्रह्मचर्यगृहस्थवानप्रस्थसंन्यासाश्रमेषु सङ्गमनीयो भवसि (नॄन्-च्यौत्नः-भुवः) मुमुक्षून् प्रति रागादीन् च्योतयिता बलवान् भवसि (विश्वचर्षणे) हे सर्वद्रष्टः परमात्मन् ! (विश्वस्मिन् भरे ज्येष्ठः-मन्त्रः-च) सर्वस्मिन् भरणीये धारणीये निर्वाहके त्वं ज्येष्ठः श्रेष्ठो मन्त्रयिता मन्त्रप्रदः-ज्ञानप्रदो भवसि ॥४॥